________________
स्वोपज्ञलघुवृत्तिः [१८२] वा स्यात् । उदकुम्भः, उदककुम्भः। व्यञ्जन इति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकदेशः ॥ १०५ ॥ मन्थौदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध गाहे
वा।३ । २। १०६ । एत्तरपदेषु उदकस्योदो वा स्यात् । उदमन्थः, उदकमन्थः । उदौदनः, उदकोदनः । उदसक्तः, उदकसक्तुः । उदबिन्दुः, उदकविन्दुः । उदवज्रः, उदकवत्रः, । उदभारः, उदकभारः । उदहारः, उदकहारः । उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः ॥ १०६॥
नाम्न्युत्तरपदस्य च । ३ । २ । १०७ ।
उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः स्यात् । उदमेघः, उदवाहः, उदपानम्, उदधिः, लवणोदः, का. लोदः ॥ १०७॥
तेलुग्वा । ३ । २ । १०८।। संज्ञाविषये पूर्वोत्तरपदे लुग् वा स्यात् । देवदत्तः, देवः, दत्तः ॥ १०८ ॥
व्यन्तरनवर्णोपसर्गादप ईए । ३ । २ । १०९ ।
द्वयन्तभ्यामवर्णान्तव|पसर्गेभ्यश्च परस्याप उत्तरपदस्य ईपू स्यात् ।द्वीपम्, अन्तरीपम्, नीपम्, समीपम् ।
१ नाम्नि पूर्वोत्तरपदे लुग् वा स्तः । यथा देवदत्त इत्यस्य ‘देव इत्युक्ते, दत्त इन्युस्ते वा देवदत्तविषयकप्रकरगादर्थविशेषस्य बोधो भवति । एवं भर्तृ वा हरिर्वा भर्तृहरिर्वा, सत्या वा भाना वेत्युक्तेऽपि भर्तृहरि-सत्यभामार्थबोधः स्यात् ।
२ द्विधा गता आगोऽस्तित् इति द्वोपम् । एवमन्तरीपम् जलमध्यस्थलम् ।