SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ [१६० ] हैमशब्दानुशासनस्य विशेषण - सर्व्वादि-सख्यं बहुव्रीहौ । ३ । १ । १५० । विशेषणं सर्वादि संख्यावाचि च बहुव्रीहौ प्राकू स्यात् । चित्रगुः सर्वशुक्ला, द्विकृष्णः ॥ १५० ॥ क्ताः । ३ । १ । १५१ । तं सर्व बहुव्रीहौ प्राक् स्यात् । कृतकटः ॥ १५१ ॥ जातिकाल सुखादेर्नवा । ३ । १ । १५२ । जातेः कालात् सुखादिभ्यश्च बहुव्रीहौ क्तान्तं वा प्राक् स्यात् । शाङ्गरजग्धी, जग्धशाङ्गरा । मासजाता जातमासा। सुखजाता, जातसुखा । दुःखहीना, हीनदुःखा ॥ १५२ ॥ आहिताग्न्यादिषु । ३ । १ । १५३ । एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः, अग्न्याहितः । जातदन्तः, दन्तजातः ॥ १५३ ॥ प्रहरणात् । ३ । १ । १५४ । प्रहरणार्थात् क्तान्तं बहुव्रीहौ वा प्राक् स्यात् । उद्यतोसि:, अस्युद्यतः ॥ १५४ ॥ न सप्तमन्द्रादिभ्यश्च | ३ | १ | १५५ । इन्द्रादेः प्रहरणार्थाच प्राक् सप्तम्यन्तं बहुव्रीहौ न स्यात् । इन्दुमौलिः, पद्मनाभः, असिपाणिः ॥ १५५ ॥ गड्वादिभ्यः | ३ | १ | १५६ | गवादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राक् वा स्यात् कण्ठेगडुः, गडुकण्ठः । मध्येगुरुः, गुरुमध्यः ॥। १५६ ।। १ उद्यतोSसिरनेनेति उद्यतासिः । २ इन्दुमौलौं यस्येति इन्दुमौलिः । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy