________________
स्वोपज्ञलघुवृत्तिः [१६१] प्रियः। ३।१ । १५७। अयं बहुव्रीही प्राक् वा स्यात्। प्रियगुडः, गुडप्रियः ॥ १५७ ॥
कडारादयः कर्मधारये । ३ । १ ।१५८।
एते कर्मधारये प्राक् वा स्युः। कडारजैमिनिः, जैमिनिकडारः । काणद्रोण द्रोणकाणः ॥ १५८ ॥
धर्मार्थादिषु द्धन्द्धे । ३ । १ । १५९ । एषु द्वन्द्वेष्वप्राप्तप्राक्त्वं वा प्राक् स्यात् । धर्मार्थों, अर्थधम्ौं । शब्दार्थों, अर्थशब्दौ ॥ १५९ ॥ लवक्षराऽसखीदुत्स्वराद्यदल्पस्वराय॑मेकम् ।३।१।१६०।
लघ्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरं पूज्यवाचि चैक द्वन्द्वे प्राक् स्यात् । शरशीर्षम् , अग्नीषोमो, वायुतोयम् । असखीति किम् ? सुतसखायौ। अस्त्रशस्त्रम् , प्लक्षन्यग्रोधौ, श्रद्धामेधे। लघ्वादिति किम् ? कुक्कुटमयूरो, मयूरकुक्कुटौ। एकमिति किम् ? शङ्खदुन्दुभिवी णाः। द्वन्द्व इत्येव ? विस्पष्टपटुः ॥ १६० ॥ 'मास-वर्ण-भ्रात्रऽनुपूर्वम् । ३ । १ ।१६१।
एतद्वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् फाल्गुनचैत्रौ, ब्राह्मणक्षत्रियौ, ब्राह्मणक्षत्रियवैश्याः, बलदेववासुदेवो ॥ १६१ ॥
भ-ऋतुतुल्यस्वरम् । ३ । १ । १६२ । नक्षत्रतुवाचि तुल्यस्वरं द्वन्द्वेऽनुपूर्व प्राक् स्यात् । अ