SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१५९] पात्र्यशूद्रस्य । ३ । १ । १४३ । पात्राहशूद्रवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् । तक्षायस्कारम् । पाव्यति किम् ? जनङ्गमबुकसाः ॥ १४३ ॥ गवाश्वादिः । ३ । १ । १४४ । अयं द्वन्द्व एकार्थः स्यात् । गवाश्वम्, गवा विकम् ॥ १४४ ॥ न दधिपयआदिः । ३ । १ । १४५ । दधिपय आयो द्वन्द्व एकार्थो न स्यात् । दधिपयसी, सपिर्मधुनी ॥ १४५॥ संख्याने । ३ । १ । १४६ । वर्तिपदार्थानां गणने गम्ये द्वन्द्व एकार्थों न स्यात् । दश गोमहिषाः, बहवः पाणिपादाः ॥ १४६ ॥ वान्तिके । ३ । १ । १४७ । वर्तिपदार्थानां संख्यानस्य समीपे गम्ये द्वन्द्व एकार्थो वा स्यात् । उपदशं गोमहिषम् , उपदशा गोमहिषाः ॥ १४७॥ . प्रथमोक्तं प्राक् । ३ । १ । १४८ । • अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशाः. सप्तगङ्गम् ॥ १४८ ॥ राजदन्ताऽऽदिषु । ३ । १ । १४९ । एतेषु समासेष्वप्राप्तप्राग्निपातं प्राक् स्यात् । राजदेन्तः, लिप्तवासितम् ॥ १४९ ॥ १ उपगता दश यस्य येषां वेति उपदशं उपदशो वा गोमहिषाः। : २ दन्तानां राजा। पूर्व वासितं पश्चालिप्तमिति लिप्तवासितम् । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy