SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ [१५८] हैमशब्दानुशासनस्य त् । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम् । अनुवाद इति किम् ? उदगुः कठकालापाः । अप्रसिद्धं कथयन्ति ॥१३८ ॥ अक्लीबेऽवयुक्रतोः । ३ । १ । १३९ । ___ अध्वर्युः-यजुर्वेदः, तद्विहितक्रतुवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात्, न चेदेते क्लीबवृत्तयः । अाश्वमेघम् । अक्लीव इति किम् ? गवामयनादित्यानामयने । अध्वविति किम् ? इषुवज्रौ । क्रतोरिति किम् ? दर्शपौर्णमासौ ॥१३९ ॥ निकटपाठस्य । ३ । १ । १४०। निकटः पाठो येषामध्येतृणां तेषां स्वैर्द्वन्द्व एकार्थः स्यात्। पेदकक्रमकम् ।। १४०॥ नित्यवरस्य । ३ । १ । १४१ । नित्यं जातिनिबद्धं वैरं येषां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । अहिनकुलम् । नित्यवरस्येति किम् ? देवासुराः, देवासुरम् ॥१४१ ॥ नदी-देश-पुरां विलिङ्गानाम् । ३ । १ । १४२ । एषां विविधलिङ्गानां स्वैर्द्वन्द्व एकार्थः स्यात् । गङ्गाशोणम् , कुरुकुरुक्षेत्रं, मथुरापाटलिपुत्रम् । विलिङ्गानामिति किम् ? गङ्गायमुने ॥१४२ ॥ १ पदमधीते पदकः । क्रममधीते क्रमकः । पदकश्च क्रमकश्च पदकक्रमकम् । कुरवश्व कुरुक्षेत्रं चेति कुरुकुरुक्षेत्रम् । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy