SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१५७] नित्यं स्यात् । अश्वरथम्, युकालिक्षम् ॥ १३४ ॥ फलस्य जातौ । ३ । १ । १३५। फलवाचिनां बह्वर्थानां जातौ स्वैर्द्वन्द्व एकार्थो नित्य स्यात् । बदामलकम् । जाताविति किम् ? एतानि बद्रामलकानि सन्ति ॥ १३५॥ अप्राणि पश्चादेः । ३ । १ । १३६ । प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । आराशस्त्रि । जातावित्येव? सह्यविन्ध्यो । प्राण्यादिवर्जनं किम् ? ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविट्शूद्रम् । गोमहिषौ, गोमहिषम् । प्लक्षन्यग्रोधौ, प्लक्षन्यग्रोधम् । अश्वरथी, अश्वरथम् । बदरामलके, बदामलकम् ॥ १३६ ॥ प्राणितूर्याङ्गाणाम् । ३ । १ । १३७ । ___ प्राणितूर्ययोरङ्गार्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । कर्णनासिकम्, मार्दङ्गिकपाणविकम् । स्वैरित्येव ? पाणिगृध्रौ ॥ १३७ ॥ चरणस्य स्थेणोऽद्यतन्यामनुवादे । ३ । १ । १३८ । चरणाः कठादयः, तद्वाचिनामद्यतन्यां यौ स्थेणी तयोः कर्तृत्वेन सम्वन्धिनां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थः स्यातादृशा जन्तवः क्षुद्राः । नकुलपर्यन्तं हीनकायाः सर्वेऽपि क्षुद्रा इति केचित् , इति सिद्धहैमलघुन्यासकारमतम् । १ "पशुव्यन्जनानां" [३-१-१३२] सूत्रेण एकार्थो वा द्वन्द्वः स्यात् , एवं दधिधृते स्थलेऽपि । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy