________________
[१५६] हैमशब्दानुशासनस्य सवः। पुनर्वसुरिति किम् ? पुष्यमघाः । भ इति किम् ? तिष्यपुनर्वसवो बालाः ॥ १२९ ॥ विरोधिनाम्-अद्रव्याणां नवा बन्दः स्वैः ।३।१।१३० __द्रव्यं गुणाद्याश्रयः, विरोधिवाचिनामतदाश्रयवृत्तीनां द्वन्द्वो वैकार्थः स्यात् । स्वैः स्वजातीयैरेवाऽऽरब्धश्चेत् । सुखदुःखम्, सुखदुःखे। लाभालाभम्,लाभालाभौ। विरोधिनामिति किम् ? कामक्रोधौ । अद्रव्याणामिति किम् ? शीतोष्णे जले । स्वैरिति किम् ? बुद्धिसुखदुःखानि ॥१३०॥
अश्ववडव-पूर्वापराऽधरोत्तराः। ३।१ । १३१ । । एते त्रयोऽपि द्वन्द्वा एकार्था वा स्युः स्वैश्चेत् । अश्ववडवं । अश्ववडवौ । पूर्वापरम्, पूर्वापरे। अधरोत्तरं, अधरोत्तरे ॥ १३१॥
पशुव्यञ्जनानाम् । ३ । १ । १३२ । पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थो वा स्यात् । गो. महिषम्, गोमहिषौ । दधिघृतम्, दधिघृते ॥ १३२ ॥ तरु-तृण-धान्य-मृग-पक्षिणां बहुत्वे । ३ । १ । १३३ ।
एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वर्द्वन्द्व एकार्थो वा स्यात् । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः कुशकाशम् , कुश. काशाः। तिलमाषम् , तिलमाषाः । ऋश्यणम्, ऋश्येणाः । हंसचक्रवाकम्, हंसचक्रवाकाः ॥ १३३ ॥
सेनाङ्ग-क्षुद्रजन्तूनाम् । ३ । १ । १३४ । सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां स्वैर्द्वन्द्व एकार्थो ३ क्षुद्रजन्तवोऽप्काया जीवाः । एषामस्थि शोणितं च न विद्यते.