________________
स्वोपज्ञलघुवृत्तिः [१५५] पुरुषः एकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । पुरुष इति किम् ? तीरं नदनदीपतेः। तन्मात्रभेद इत्येव ? स्त्रीपुंसौ ॥ १२६ ॥ ग्राम्याऽशिशुदिशफसङ्घ स्त्री प्रायः। ३।१।१२७ । ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात् पशवस्तेषां सङ्घ स्त्रीपुरुषसहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेत्। गावश्च स्त्रियः,गावश्च नरा, इमा गावः। ग्राम्येति किम् ? रुरवश्चमे रुरवश्चेमा इमे रुरवः । अशिश्चिति किम् ? बर्यश्च बकराश्च बर्कराः । द्विशफ इति किम् ? गर्दभाश्च गर्दभ्यश्च गर्दभाः। सङ्घ इति किम्? गौवायं गौश्चयं इमौ गावौ । प्राय इति किम् ? उष्ट्राश्च उष्ट्रयश्च उष्ट्राः ॥ १२७॥
क्लीबमन्येनैकं च वा । ३ । १ । १२८॥ क्लीबं नपुंसकमन्येनालीबेन सहोक्तावेकः शिष्यते, क्लीवाक्लीवमात्रभेदे, तच्च शिष्यमाणं एकमेकार्थ च वा स्यात् । शुक्लं च शुक्लश्च शुक्लं, शुक्ले वा । शुक्लं च शुक्लश्च शुक्लाश्च शुक्लं, शुक्लानि वा । अन्येनेति किम् ? शुक्लं च शुक्लं च शुक्ले। तन्मात्रभेद इत्येव हिमहिमान्यौ ॥ १२८॥
पुष्यार्थाद् भे पुनर्वसुः । ३ । १ । १२९ । पुष्यार्थान्नक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोक्तौ द्वयर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू , उदितौ तिष्यपुनर्वसू । पुष्यार्थादिति किम् ? आर्द्रापुनर्व- १ हिमं च हिमानी चेति हिमाहिमान्यौ, अत्र तन्मात्रभेदाऽभावः । सं०