SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ [ १५४ ] हैमशब्दानुशासनस्य भ्रातृ-पुत्राः स्वसृ-दुहितृभिः | ३ | १ | १२१ | स्वर्थे सो र्थो, दुहित्रर्थेन च पुत्रार्थ एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ पुत्रश्च दुहिता च पुत्रौ ॥ १२१ ॥ , पिता मात्रा वा । ३ | १ | १२२ | मातृशब्देन सहोक्तौ पितृशब्द एको वा शिष्यते । पिता च माता च पितरौ मातापितरौ ॥ १२२ ॥ श्वशुरः श्वश्रूभ्यां वा । ३ । १ । १२३ । श्वशब्देन सहोक्तौ श्वशुर एको वा शिष्यते । श्वशुरौ, श्वश्रूश्वशुरौ ॥ १२३ ॥ वृद्धो यूना तन्मात्रमे । ३ । १ ।१२४। यूना सहोक्तौ वृद्धवाच्येकः शिष्यते तन्मात्रभेदे, न चेत् प्रकृतिभेदोऽर्थभेदो वाऽन्यः स्यात् । गार्ग्यश्च गार्ग्यायणच गाग्यौं । वृद्ध इति किम् ? गर्गग्रायणौ । यूनेति किम् ? गार्ग्यगर्गौ । तन्मात्रभेद इति किम् ? गार्ग्य वात्स्यानौ ॥ १२४ ॥ स्त्री पुंवच्च | ३ | १ | १२५ | वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते, पुल्लिङ्गश्रयं तन्मात्रमेदे । गार्गी च गार्ग्यायणश्च गाग्र्यो, गार्गी च गाययणौ च गर्गान् ।। १२५ ।। पुरुषः स्त्रिया । ३ । १ । १२६ । पुरुषशब्दः प्राणिनि पुंसि रूढः स्त्रीवाचिना सहोक्तौ " १ गार्गी च गार्ग्यायणौ च गर्गाः, अत्र पुंवद्भावाद डीवृित्तौ यत्रो लुप् गर्गानिति " शस्रोता सश्चनः पुंसि ” (१ - ४-४९, पृ० ३६ ) इति नत्वं च । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy