SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१५३] • चार्थे द्वन्द्वः सहोक्तौ । ३ । १ । ११७ । नाम नाम्ना सहोक्तिविषये चार्थवृत्तिःसमासो द्वन्द्वः स्यात्। प्लक्षन्यग्रोधी, वाक्त्वचम् । नाम नाम्नेत्यनुवृत्तावपि 'लघ्वक्षरादि सूत्रे एकग्रहणाद् बहूनामपि। धवखदिरपलाशा। चार्थ इति किम् ? वीप्सा सहोक्तौ मा भूत्, ग्रामो ग्रामो रमणीयः। सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ॥ ११७ ॥ समानामथैनैकः शेषः । ३ । १ । ११८ अर्थेन समानां समानार्थानां सहोक्तो गम्यायामेका शिष्यते, अर्थादन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रो कुटिलौ वा । सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा । अर्थेन समानामिति किम् , ? प्लक्षन्यग्रोधौ । सहोतावित्येव ? वक्रश्च कुटिलश्च दृश्यः ॥ ११८ ॥ स्यादावसंख्येयः । ३ । १ । ११९ । - सर्वस्मिन् स्यादौ विभक्तौ समानानां तुल्यरूपाणां सहोक्तावेकाशिष्यते, न तु संख्येयवाची। अक्षश्च शकटस्य, अक्षश्च देवनः, अक्षश्च बिभीतकः अक्षाः। स्यादाविति किम् ? माता च जननी, माता च धान्यस्य, मातृमातरौ । असंख्येय इति किम् ? एकश्चैकश्च ॥ ११९ ॥ त्यदादिः । ३ । १ । १२० । त्यदायैरन्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तो, स च यश्च यौ, अहं च स च त्वं च वयम् ॥ १२० ॥ १ धवश्च खदिरश्च पलाश चेति धवखदिरपलाशाः, इति द्वन्द्वपद्धतिः। सं. २०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy