________________
हेमशब्दानुशासनस्य
चतुष्पाद्गर्भिण्या | ३ | १ | ११२ ।
चत्वारः पादा यस्या जातेस्तद्वाच्येकार्थ गर्भिण्या समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । गोगर्भिणी, महिषगर्भिणी । जातिरित्येव ? कालाक्षी गर्भिणी ॥ ११२ ॥ युवा-खलति-पलित-जरबलिनैः । ३ । १ । ११३ ॥
युवन्नित्येकार्थमेभिः समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । युवखलतिः युवपलितः युवजरन्, युवबलिनः ॥ ११३ ॥
[ १५२ ]
कृत्य- तुल्याऽऽख्यमजात्या । ३ । १ । ११४ ।
कृत्यान्तं तुल्यपर्यायं चैकार्थ्यमजात्येन सह समासtrayoषः कर्मधारयश्च स्यात् । भोज्योष्णम्, स्तुत्यपटुः । तुल्यसन, सदृशमहान् । अजात्येति किम् ? भौज्य ओदनः ॥ ११४ ॥
कुमारः श्रमणादिना । ३ । १ । ११५ । कुमारेत्येकार्थं श्रमणादिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कुमारश्रमणा, कुमारप्रव्रजिता ॥ ११५ ।। मयूरव्यंसकेत्यादयः | ३ | १ | ११६ ॥
एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः, कबोजमुण्डः, एहीडं कर्म, अनीतपिवता क्रिया, कुरुकटो वक्ता, गतप्रत्यागतं, क्रयक्रयिका, शांकपार्थिवः त्रिभासर्वश्वेतः ।। ११६ ।।
ग„
१ कुमारी चासौ श्रमणा च कुमारश्रमणा ।
२ व्यंसयति छलयतीति व्यंसकः । शाकप्रियः पार्थिवः शाकापर्थिवः । सं०