SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१५१] महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः । पूजायामिति किम् ? सन् घटोऽस्तीत्यर्थः ॥ १०७॥ वृन्दारक-नागकुञ्जरैः । ३ । १ । १०८।। पूजायां गम्यायामेभिः सह पूज्यवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोवृन्दारकः, गोनागः, गोकुञ्जरः । पूजायामिति किम् ? सुसीमो नागः ॥१०८॥ कतर-कतमौ जातिप्रश्ने । ३ । १ । १०९ । एतावेकार्थो जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समा. सस्तत्पुरुषः कर्मधारयश्च स्यात्। कतरकठः, कतमगार्ग्यः। जातिप्रश्न इति किम् ? कतरः शुक्लः, कतमो गन्ता॥१०९॥ किंक्षेपे । ३ । १।११० । निन्दायां गम्यमानायां किमित्येकार्थ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च स्यात्। किंराजा, किंगौः । क्षेप इति किम् ? को राजा तत्र? ॥ ११० ॥ पोटा-युवति-स्तोक-कतिपय गृष्टि-धेनु-चशा वेहद्-बकयणी-प्रवक्तृ-श्रोत्रियाध्यायक-धूर्त-प्रशंसा ___ रूदैर्जातिः । ३ । १ । १११ । पोटादिभिः प्रशंसारूढैश्च सह जातिवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । इभ्यपोटा, नागयुवतिः, अग्निस्तोकम् , दधिकतिपयम् , गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत , गोबष्कयणी, कठप्रवक्ता, कठश्रोत्रियः, कठाध्यायकः, मृगधूर्तः, गोमतल्लिका, गोप्रकाण्डम् ।।१११।। १ वृन्दारक इव वृन्दारकः, गोश्चासौं वृन्दारकश्च गोवृन्दारकः । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy