________________
[१५०] हैमशब्दानुशासनस्य पूर्वोपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम
वीरम् । ३ । १ । १०३ । एतान्येकार्थानि नाम्ना परेण समासस्तत्पुरुषः कर्म धारयश्च स्युः । पूर्वपुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः ॥ १०३॥
श्रेण्यादि कृताद्यैश्च्व्यर्थे । ३ । १ । १०४ ।
श्रेण्याघेकार्थ कृताद्यैः सह व्यर्थे गम्ये समासस्तत्पुरुषः कर्मधारयश्च स्यात्। श्रेणिकृताः, ऊककृताः। व्यर्थइति किम् ? श्रेणयः कृताः केचित् ।। १०४ ॥
क्तं नत्रादिभिन्नः । ३ । १ । १०५ । . क्तान्तमेकाथै नप्रकारैरेव यानि भिन्नानि तैः सहसमासस्तत्पुरुषः कर्मधारयश्च स्यात् । कृताकृतम्, पीताऽवपीतम् । क्तमिति किम् ? कर्तव्यमकर्तव्यं च। नत्रादिभिन्नरिति किम् ? कृतं प्रकृतं, कृतश्चाविहितं च ॥ १०५ ॥
सेट्नाऽनिटा । ३ । १ । १०६ । सेट् क्तान्तं नमादिभिन्ननानिटा सह न समस्यते । क्लिशितमक्लिष्टम्, शितमशातम् । सेडिति किम् ? कृताकृतम् । अनिटेति किम् ? अशितानशितम् ॥ १०॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् । ३ । १ । १०७।
एतान्येकार्थानि पूजायां गम्यमानायां पूज्यवचनैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । सत्पुरुषः, , अश्रेणयः नेणयः कृताः श्रेणिकृताः । अत्र च्चिप्रत्ययाभावान दीर्घत्वम् ।सं.