SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ १४९ ] . यश्च स्यात् संज्ञातद्वितयोर्विषये, उत्तरपदे च परे समाहारे चार्थे, अयमेव चासंज्ञायां द्विगुश्च । पञ्चम्राः । सप्तर्षयः । द्वैमातुरः, अध्यर्द्धकंसः । पञ्चगवधनः, पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम् ? अष्टौ प्रवचनमातरः । अनानीति किम् ? पाञ्चर्षम् ॥ ९९ ॥ निन्द्यं कुत्सनैरपापाद्यैः । ३ । १ । १०० | निन्द्यवाचि निन्दाहेतुभिः पापादिवजैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । वैयाकरणखसूची, मीमांसकदुर्दुरूटः । निन्यमिति किम् ? वैयाकरणश्चौरः अपापाद्यैरिति किम् ? पापवैयाकरणः हतविधिः ॥ १०० ।। उपमानं सामान्यैः । ३ । १ । १०१ । उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्म्मवाचिभिरेव समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । शस्त्रीश्यामा, मृगचपला । उपमानमिति किम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अग्निर्माणवकः ॥ १०१ ॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ । ३ । १ । १०२ । ४ उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधार'धर्मानुक्तौ समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । पुरुषव्याघ्रः, श्वसिंही । साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः, शूरः इति मा भूत् ॥ १०२ ॥ १ पञ्च च ते आम्नाश्च पञ्च । म्रा इति सञ्ज्ञाविषयोदाहरणं, द्वैमातुर इति तद्धिते । २ वैयाकरणश्चासौ खसूची च वैयाकरणखसूची । ३ शस्त्रीव शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामा | ४ व्याघ्र इव व्याघ्रः पुरुषः, पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः । सं
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy