________________
[१४८] हैमशब्दानुशासनस्य त्। अरण्येतिलकाः, अरण्येमाषकाः ॥ ९४ ॥
कृद्यनावश्यके । ३ । १ । ९५ । सप्तम्यन्तं नाम “य एचातः" (५-१-२८) इति यान्तेनावश्यम्भावे गम्ये समासस्तत्पुरुषश्च स्यात्। मासदेयम् । कृदिति किम् ? मासे पित्र्यम् ॥ ९५ ।। विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ।३।१।९६ ।
भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकाय, तद्विशेषणवाचि विशेष्यवाचिनकाN समासस्तत्पुरुषः कर्मधारयश्च स्यात् । नीलोत्पलम् , खञ्जकुण्टः, कुण्टः खञ्जः । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा ॥ ९६ ।। पूर्वकालैक-सर्व-जरत-पुराण-नव-केवलम् ।। १ ।९७।
पूर्वकालो यस्य तद्वाच्येकादीनि चैकार्थानि परेण ना. म्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात्। स्नातानुलिप्तः, एकशाटी, सर्वान्नम् , जरद्वः, पुराणकविः, नवोक्तिः, केवलज्ञानम् । एकार्थमित्येव स्नात्वाऽनुलिप्तः ॥९७॥
दिगधिकं संज्ञा-तद्धितोत्तरपदे । ३ । १ । ९८॥ दिग्वाच्यधिकंचैकार्थ नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् , संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः। दक्षिणकोशला, पूर्वेषुकामशमी, दक्षिणशालः । अधिक पाष्टिकः, उत्तरगवधनः, अधिकगवप्रियः ॥ ९८ ॥ संख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १ १९९॥
संख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कम्मधार१ पूर्व स्नातः पश्चादनुलिप्तः स्नालानुलिप्तः। केवलमसहायं ज्ञानं केवलज्ञानम्। २ तत्पुरुषः सत् कर्मधारयश्च समासः। सं०