SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१४७] __ सप्तमी शौण्डायैः । ३ । १ । ८८ । एभिः सहैकार्थे सप्तम्यन्तं समासस्तत्पुरुषःस्यात् । पानशौण्डः, अक्षधूर्तः ॥ ८८ ॥ सिंहाद्यैः पूजायाम् । ३ । १ । ८९ । एभिः सप्तम्यन्तंसमासस्तत्पुरुषः स्यात् । पूजायांगम्यमानायां । समरसिंहः, भूमिवासवः ॥ ८९ ॥ __काकाद्यैः क्षेपे । ३ । १ । ९० । एभिः सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः स्यात् । तीर्थकाकः, तीर्थश्वा । क्षेप इति किम् ? तीर्थे काकोऽस्ति ॥ ९० ॥ पात्रे समितेत्यादयः।३।१ । ९१ । .. एते सप्तमीतत्पुरुषाः क्षेपेनिपात्यन्ते। पात्रे समिताः, गेहे शूरः ।। ९१ ॥ क्तेन । ३ । १ । ९२ । सप्तम्यन्तं क्तान्तेन क्षेपे समासस्तत्पुरुषश्च स्यात् । भस्मनिहुतं, अवतप्तेनकुलस्थितम् ॥ ९२ ॥ तत्राहोरात्रांशम् । ३ । १ । ९३ । तत्रेति सप्तम्यन्तं अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन समासस्तत्पुरुषः स्यात्। तत्रकृतम्, पूर्वाह्नकृतम्, पूर्वरात्रकृतम्। तत्राहोरात्रांशमिति किम् ? घटे कृतम् । अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् । अंशमिति किम् ? अनि भुक्तं, रात्रौ नृत्तम् ॥ ९३ ॥ नाम्नि । ३।१ । ९४ । सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्या
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy