SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ [१४६] हैमशब्दानुशासनस्य कर्मजा तृचा च । ३ । १ । ८३।। कर्मणि या षष्ठी तदन्तं कर्तृविहिताकान्तेन तृजन्तेन च न समासः स्यात् । भक्तस्य भोजकः, अपांस्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषकः, सम्बन्धेऽत्र षष्ठी । कतरीत्येव? पयःपायिका ॥ ८३॥ तृतीयायाम् । ३ । १ । ८४ । कर्तरि तृतीयायां सत्यां कमजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् ? शब्दानुशासनं गुरोः ॥ ८४॥ तृप्तार्थ-पूरणाव्ययाऽतृश्-शत्रानशा । ३ । १ । ८५ । - तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तश्च पष्ठयन्तं न समस्यते । फलानां तृप्तः, तीर्थकृतां षोडशः, राज्ञः साक्षात्, रामस्य द्विषन् , चैत्रस्य पचन्, मैत्रस्य पचमानः ॥ ८५॥ ज्ञानेच्छार्चार्थाऽऽधारक्तेन । ३।१ । ८६ । ज्ञानेच्छाार्थेभ्यो यो वर्तमाने तो यश्चाद्यर्थाचाधार इत्याधारे क्तस्तदन्तेन षष्ठयन्तं न समस्यते। राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञां पूजितः, इदमेषां यातम् ।। ८६ ॥ अस्वस्थगुणैः । ३ । १ । ८७ ॥ . ये गुणाः स्वात्मन्येव तिष्ठन्ति न द्रव्ये, ते स्वस्थारतत्प्रतिषेधेनास्वस्थगुणवाचिभिः षष्ठयन्तंन समस्यते। पटस्य शुक्लः, गुडस्य मधुरः । अस्वस्थगुणैरिति किम् ? घटवणेः चन्दनगन्धः ॥ ८७॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy