SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१४५] कृति । ३ । १।७७ "कर्मणि कृतः" (२-२-८३ पृ० ८०) "कर्त्तरि" (२-२-८६ पृ०८१) इति या निमित्ता षष्ठी, तदन्तं नाम नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानं, गणधरोक्तिः ॥७७॥ याजकादिभिः । ३ । १ । ७८ । षष्ठयन्तं याजकाद्यैः समासस्तत्पुरुषः स्यात्। ब्राह्मणयाजकः, गुरुपूजकः ॥ ७८ ॥ . पत्ति-रथो गणकेन । ३ । १ । ७९ । एतौ षष्ठयन्तौ गणकेन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः, रथगणकः । पत्तिरथाविति किम् ? धनस्य गणकः ॥ ७९ ॥ सर्वपश्चादादयः । ३ । १। ८० . एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वपश्चात्, सर्वचिरम् ।। ८० ॥ अकेन कोडाऽऽजीवे । ३ । १ । ८१ । षष्ठयन्तमकप्रत्ययान्तेन क्रीडाजीविकयोर्गम्ययोः स. मासस्तत्पुरुषः स्यात् । उद्दालपुष्पभञ्जिका, नखलेखकः । क्रीडाजीव इति किम् ? पयसः पायकः ।। ८१ ॥ न कर्तरि । ३ । १ । ८२ । कर्तरि या षष्ठी तदन्तमकान्तेन समासो न स्यात् । तव शायिका । कर्तरीति किम् ? इक्षुभक्षिका ।। ८२॥ १ पत्तीनां गणकः । २ सर्वेषां पश्चात् । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy