________________
। [१४४] हैमशब्दानुशासनस्य
तदर्थार्थेन । ३ । १ । ७२ ।। चतुर्थ्यर्थो यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुषः स्यात् । पित्रर्थ पयः, आतुरा यवागूः। तदर्थार्थनेति किम् ? पित्रेऽर्थः ॥७२॥
पञ्चमी भयाथैः । ३ । १ । ७३ । पञ्चम्यन्तं भयाद्यैरैकार्थे समासस्तत्पुरुषः स्यात् । वृकभयम्, वृकभीरूः ॥७३॥
क्तेनासत्त्वे । ३ । १ । ७४ । असत्त्ववृत्तेर्या पश्चमी तदन्तं क्तान्तेन समासस्तत्पुरुषः स्यात् । स्तोकान्मुक्तः, अल्पान्मुक्तः। असत्त्व इति किम् ? स्तोकाद् बद्धः ॥७४॥
परःशतादि । ३ । १ । ७५ । अयं पञ्चमीतत्पुरुषः साधुः स्यात् । परःशताः, परःसहस्राः ॥७॥
षष्ठ्ययत्नाच्छेषे । ३ । १ । ७६ ।।
" शेषे" (है. सू०२-२-८१ पृ० ८०) या षष्ठी तदन्तं नाम नाम्नैकार्ये समासस्तत्पुरुषः स्यात् । न चेत्स शेषो “नाथ" (है० सू०२-२-१० पृ० ६७) इत्यादेयत्नात्।राजपुरुषः । अयत्नादिति किम् ? सर्पिषो नाथितम् । शेष इति किम् ? गवां कृष्णा सम्पन्नक्षीरा ॥७६ ॥
१ अत्र "असत्त्वे उसेः (३-२-१०) इति सूत्रेणालप् समासः ।
२ शतात् परे परःशताः, एवं परोलक्षा इत्यादयः । अत्र पखाब्दस्य पूर्व .. निपातः स इत्यागमश्च निपातनाद् ज्ञेयः, सकारान्तो वा परः शब्दोऽपि । सं.