________________
स्वोपज्ञलघुवृत्तिः [१४३] रुषः स्यात् । अर्द्धचतस्रो मात्राः। चतस्रति किम् ? अर्द्धन चत्वारो द्रोणाः ॥ ६६ ॥
ऊनार्थपूर्वाद्यैः । ३ । १ । ६७ । तृतीयान्तं ऊनार्थेः पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् । माषोनं माषविकलं । मासपूर्वः, मासावरः ॥७॥
. कारकं कृता । ३ । १ । ६८ । कारकवाचितृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम्, नवनिर्भिन्नः, काकपेया नदी, बाष्पच्छेद्यानि तृणानि । कारकमिति किम् ? विद्ययोषितः ॥६८॥
न विंशत्यादिनकोऽच्चान्तः ।३। १६९ । एकशब्दस्तृतीयान्तो न विंशत्यादिना समासस्तत्पुरुषः स्यात्, एकस्य चादन्तः। एकान्न विंशतिः एकाद् नविंशतिः, एकान्नत्रिंशत् एकाद् न त्रिंशत् ॥ ६९ ॥ . चतुर्थी प्रकृत्या । ३ । १ । ७०। ..
प्रकृतिः परिणामिकारणम् , एतद्वाचिनैकार्ये चतुर्थ्यन्तं विकारार्थ समासस्तत्पुरुषः स्यात् । यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली ॥ ७० ॥
हितादिभिः । ३ । १ । ७१ । चतुर्थ्यन्तं हितायैः समासस्तत्पुरुषः स्यात् । गोहितम् , गोमुखम् ॥ ७१ ॥
१ अर्धेन कृताश्चतस्रोऽर्धचतस्रः । २ मासेन अवरो मासावरः । ३ एकेन न विंशतिः एकानविंशतिः । ४ गोभ्यः सुखम् । सं.