SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [१४२] हैमशब्दानुशासनस्य लवाचि व्यापकार्थेन समासस्तत्पुरुषः स्यात् । मुहूर्तसुखं, क्षणपाठः, दिनगुडः । व्याप्ताविति किम् ? मासं पूरको याति ॥ ६१॥ श्रितादिभिः । ३ । १ । ६२ । द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुषः स्यात् । . धर्मश्रितः, शिवगतः ॥ ६२ ॥ प्राप्ताऽऽपन्नौ तयाच । ३ । १ । ६३ । एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम्, तद्योगे चानयोरत् स्यात् । प्राप्तजीविका, आपन्नजीविका ॥६३॥ ईषद्गुणवचनैः । ३ । १ । ६४। ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् , ये गुणे वर्तित्वा तद्योगाद् गुणिनि वर्तन्ते ते गुणवचनाः । ईषपिङ्गला, ईषद्क्तः। गुणवचनैरिति किम्? ईषद्गार्ग्यः॥६४॥ तृतीया तत्कृतैः । ३ । १ । ६५ । तृतीयान्तं तदर्थकृतैर्गुणवचनैरेकायें समासस्तत्पुरुषः स्यात् । शड्डुलाखण्डः, मदपटुः । तत्कृतैरिति किम् ? अक्षणा काणः । गुणवचनैरित्येव ? दना पटुः पाटवमित्यर्थः ॥६५॥ चतस्रार्द्धम् । ३ । १ । ६६ । अर्द्धस्तृतीयान्तस्तस्कृतार्थेन चतसृशब्देन समासस्तत्पु१ मुहूर्त सुखमिति मुहूर्तसुखमेवं शिवं गतो निर्वाणं गत इत्यादि । २ जीविका प्राप्त इति प्राप्तजीविका । ३ शङ्कलया कृत : खण्ड इति शड्कुलाखण्ड: । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy