________________
स्वोपज्ञलघुवृत्तिः [१४१] ना वा समासस्तत्पुरुषः स्यात् । 'द्वितीयभिक्षा, भिक्षाद्वितीयम् । तृतायभिक्षा, भिक्षातृतीयम् । तुर्यभिक्षा, भिक्षातुर्यम् । अग्रहस्तः, हस्ताग्रम् । तलपादः, पादतलम्
कालो दिगौ च मेयैः । ३ । १ । ५७ । कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुषः स्यात् । मासजातः । द्विगौ, एकमासजातः, द्वयहसुप्तः । काल इति किम् ? द्रोणो धान्यस्य ॥५७।।
स्वयं-सामी क्तेन । ३।१। ५८ । एते अव्यये क्तान्तेन सहकार्ये समासस्तत्पुरुषः स्याताम् । स्वयंधौतम्, सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ॥ ५८॥
द्वितीया खट्वा क्षेपे । ३ । १ । ५९ । खट्वेति द्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहकाये समासस्तत्पुरुषः स्यात् । खट्वारूढो जाल्मः । क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ॥ ५९॥
कालः ।३।१।६०। कालवाचिद्वितीयान्तं क्तान्तेन समासस्तत्पुरुषः स्यात् । रात्र्यारूढाः, अहरतिमृताः ॥६॥
व्याप्तौ । ३ । १ । ६१ । गुणक्रियाद्रव्यैरत्यन्तसंयोगे या द्वितीया, तदन्तं का१ मिक्षाया द्वितीयम् । हस्तस्याग्रं हस्ताग्रम् ।
२ मासो जातस्येति मासजातः । एको . मासो जातस्येति एकमास. जातः । द्वेऽणी सुप्तस्येति द्वयहसुप्तः ।
३ रात्रिमारूढा रात्र्यारूढाः । स०