SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [१३८] हैमशब्दानुशासनस्य सोऽव्ययीभावः स्यात् । यथारूपं चेष्टते, यथावृद्धमर्चय, यथासूत्रम् । अथेति किम् ? यथा चैत्रस्तथा मैत्रः ॥४१॥ गति वन्यस्तत्पुरुषः । ३ । १ । ४२ । . गतयः कुश्च नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात्, अन्यो बहुव्रीह्यादिलक्षणहीनः । ऊरीकृत्य, खाटकृत्य, प्रकृत्य, कारिकाकृत्य, कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः ॥ ४२ ॥ दुर्निन्दा कृच्छ्रे । १ । ४३ । दुरव्ययं निन्दाकृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः, दुष्कृतम् । अन्य इति किम् ? दुष्पुरुषकः ॥ ४३ ॥ सुः पूजायाम् । ३ । १ । ४४ । स्वित्यव्ययं पूजार्थं नाम्ना सह नित्यं समासस्तत्पु. रुषः स्यात् । सुराजा । अन्य इति किम् ? सुमद्रम् ॥४४॥ अतिरतिक्रमे च । ३ । १ । ४५। . अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । अतिस्तुत्य। अतिराजा ।।४५।। आङ् अल्पे । ३ । १ । ४६ । आङित्यव्ययमल्पार्थ नाम्ना सह समासस्तत्पुरुषः स्यात् । आकडारः ॥४६॥ १ ईपदुष्णं कोणम् । कुत्सितः पुरुषो यस्य स कुपुरुषक इति बहुव्रीहिः । २ निन्दितः पुरुषो दुष्पुरुषः । कृच्छ्रेण दुःखेन कृतं दुष्कृतम् । ३ मद्राणां समृद्धिः । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy