________________
स्वोपज्ञलघुवृत्तिः [१३७] | .. विभक्ति-समीप-समृद्धि-व्वृद्धयर्थाभावाऽत्ययाऽसं प्रति पश्चात्-क्रम-ख्याति-युगपत्-सदृक्-सम्पत्-सा
कल्यान्तेऽव्ययम् । ३ । १ । ३९ । एवर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिः-विभत्यर्थः कारकम्, अधिस्त्रि। समीपम्-उपकुम्भम् । समृद्धिः-सुमद्रम् । विगता ऋद्धिय॒द्धिः-दुर्यवनम् । अर्थाभावः-निर्मक्षिकम् । अत्ययोऽतीतत्वम्-अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभावः-अतिकम्बलम् । पश्चात्अनुरथम् । क्रमः-अनुज्येष्ठं । ख्यातिः-इतिभद्रबाहुः । युगपत्-सचक्र धेहि । सदृक्-सव्रतम् । सम्पत्-सब्रह्म साधूनाम् । साकल्यम्-सतृणमभ्यवहरति । अन्तः-सपिण्डैषणमधीते ॥ ३९॥ . योग्यता चीप्सार्थानतिवृत्ति सादृश्ये । ३ । १ । ४० ।
एष्वर्थेष्वऽव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुरूपम्, प्रत्यर्थम्, यथाशक्ति, सशीलमनयोः ॥ ४० ॥
यथाऽथा । ३ । १।४१ । थाप्रत्ययवर्ज यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समा
१ आधारार्थकसप्तम्यन्तेनाधिशब्देन समासः स्यात् स्त्रियामित्यर्थे स्त्रियामधि, अधिस्त्रि । यबनानामृद्धयभावो दुर्यवनम् । अर्थानां पदार्थांनामभावः शून्यता, मक्षिकाणामभावो निर्माक्षिकं स्थानं देशो वा, शून्यं भूतलमित्यर्थः । वर्षाणामत्ययोऽतिवर्षम् । रथस्य पश्चादनुरथम् । रूपस्य योग्यमित्यनुरूपम् । सं०