________________
[१३६] हैमशब्दानुशासनस्य
दैर्येऽनुः । ३ । १ । ३४ । दैर्ये आयामविषये यल्लक्षणं तद्वाचिना पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात्। अनुगङ्गं वाराणसी। दैर्घ्य इति किम् ? वृक्षमनुविद्युत् ।। ३४ ॥
समीपे । ३ । १ । ३५। समीपार्थेऽनुः, समीपिवाचिनाम्ना पूर्वपदार्थे समा. सोऽव्ययीभावः स्यात् । अनुवनमशनिर्गता ॥ ३५ ॥.
तिष्ठग्वित्यादयः । ३ । १ । ३६ । एते समासा अव्ययीभावाः स्युः, यथायोगमन्यस्य पूर्वस्य वा पदस्यार्थे । 'तिष्ठद्गु कालः, अधोनाभं हतः।।३६॥
नित्यं प्रतिनाऽल्पे । ३ । १ । ३७। अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ॥ ३७॥ सङ्ख्याऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ ।३।१॥३०॥ . सङ्ख्यावाच्यक्षशलाके च द्यूतविषयायामन्यथावृत्ती वर्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात्। एकपरि, अक्षपरि, शलाकापरि, एकेनाक्षेण शलाकया वा न तथावृत्तं यथापूर्व जय इत्पर्थः। सङ्ख्यादीति किम् ? पाशकेन न तथावृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथावृत्तम् ॥ ३८ ॥
१ तिष्ठन्त्यो गावो यस्मिनकाले स कालस्तिष्ठद्गु । सं० .