________________
स्वोपज्ञलघुकृत्तिः [१३५] माहारेति किम् ? एकनदी। द्विगुवाधनार्थ वचनम् ॥२८॥
वंश्येन पूर्वार्थे । ३ । १ । २९ । विद्यया जन्मना वा एकसन्तानो वंशः । तत्र भवो वंश्यः, तद्वाचिना नाम्ना सङ्ख्यावाचिसमासोऽव्ययी. भावः स्यात्, पूर्वपदस्यार्थे वाच्ये । एकमुनि व्याकरणस्य, सप्तकाशि राज्यस्य । पूर्वार्थ इति किम्? द्विमुनिकं व्याकरणम् ॥ २९ ॥
पारे-मध्येऽग्रेऽन्तः षष्ठया वा । ३ । १ । ३० ।
एतानि षष्ठयन्तेन पूर्वपदार्थे समासोऽव्ययीभावो वा स्युः । पारेगङ्गम् , मध्येगङ्गम् , अग्रेवणम् , अन्तर्गिरि, पक्षे गङ्गापारम् , गङ्गामध्यम् , वनाग्रम्, गिर्यन्तः ॥३०॥
यावदियत्त्वे । ३ । १ । ३१ ।। __ इयत्त्वेऽवधारणे गम्बे यावदिति नाम नाम्ना पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् ? यावद्दत्तम् तावद्भुक्तम् ॥३१॥ .. पर्यपाऽऽङ्-बहिरच् पञ्चम्या । ३।१।३२।
एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः। परित्रिगतम् , अपत्रिगतम् , आग्रामम् , बहिर्गामम् , प्राग्रामम् । पञ्चम्येति किम् ? परिवृक्षं विद्युत्॥३२॥
__ लक्षणेनाभि-प्रत्याभिमुख्ये ।३।११३३। ___लक्षणं चिह्नम् । तद्वाचिनाऽऽभिमुख्यार्थावभिप्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अभ्यग्नि, प्रत्यग्नि शलभाः पतन्ति। लक्षणेनेति किम् ? श्रुघ्नं प्रतिगतः । पूर्वपदार्थ इत्येव ? अभ्यङ्कागावः ॥ ३३ ॥