________________
हेमशब्दानुशासनस्य
[१३४ ] र्यदन्तरालमिति ॥ २५ ॥ तत्राऽऽदायमिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः | ३ | १ | २६ ॥
तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तं मिथः प्रहृत्येति क्रियाव्यतिहारे समानरूपेण नाम्ना युद्धेविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । 'केशाकेशि, दण्डादण्डि । तत्रेति तेनेति
किम् ? केशांश्च केशांश्च गृहीत्वा मुखं च मुखं प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति च किम् ? केशेषु च केशेषु च स्थित्वा दण्डैश्च दण्डैश्वागत्य कृतं युद्धम् गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? हस्ते च हस्ते चादाय सख्यं कृतम् ॥ २६ ॥
नदीभिर्नाम्नि | ३ | १ | २७ |
नाम नदीवाचिना संज्ञायामन्यपदार्थे समासोऽव्ययीभावश्च स्यात् । उन्मत्तगङ्गं देशः, तूष्णीगङ्गम् । नाम्नीति किम ? शीघ्रगङ्गो देशः ॥ २७ ॥
सङ्ख्या समाहारे । ३ । १ । २८ । सङ्ख्यावाचि नदीवाचिभिः सहः समाहारे गम्ये समासोऽव्ययीभावः स्यात् । द्वियमुनम्, पञ्चनदम् । स
१ केशेषु केशेषु मिथ आदाय कृतं युद्धमिति केश । केशि । दण्डैश्च दण्डैश्च मिथः प्रहृत्य कृतं युद्धमिति दण्डादण्डि; इति विग्रहः ।
२ उन्मत्ता गङ्गा यत्र देशे स उन्मत्तगङ्गे देशः । अव्ययीभावत्वात् क्लीवत्वं ह्रस्वत्वं च । एवमन्यत्राऽपि ।
३ पञ्चानां नदानां समाहारः पञ्चनदम् । सं०