________________
स्वोपज्ञलघुवृत्तिः [१३९] . प्रात्यव-परि-निरादयो गत-कान्त-क्रुष्ट-ग्लान-का
न्ताधर्थाः प्रथमाद्यन्तैः । ३ । १ । ४७। प्रादयोगताद्यर्थाः प्रथमान्तैः, अत्यादयः कान्ताद्यर्थी द्वितीयान्तैः, अवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः, निरादयःक्रान्ताद्यर्थाः पञ्चम्यन्तैनित्यं समासस्तत्पुरुषः स्युः। प्राचार्यः, समर्थः। अतिखट्वः, उद्वेलः। अवकोकिलः। परिवीरुत् पर्यध्ययनः। उत्सङ्ग्रामः, निष्कौशाम्बिः, अपशाखः । बाहुलकात् षष्ठयाऽपि, अन्तर्गार्ग्यः । गताद्यर्थी इति किम् ? वृक्षम्परिविद्युत् । अन्य इत्येव ? प्राचार्यको देशः ॥ ४७॥
अव्ययं प्रवृद्धादिभिः । ३ । १। ४८। अव्ययं प्रवृद्धादिभिस्सह नित्यं समासस्तत्पुरुषः स्यात् । पुनःप्रवृद्धम् , अन्तर्भूतः ॥ ४८ ॥ . उस्युक्तं कृता । ३ । १ । ४९। · कृत्प्रत्ययविधायके सूत्रे डस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समासस्तत्पुरुषः स्यात् । कुम्भकारः। उस्युक्तमिति किम् ? अलङ्कृत्वा । कृतेति किम् ? धर्मों वो रक्षतु ॥ ४९ ॥
तृतीयोक्तं वा । ३ । १ । ५०। दंशेस्तृतीययेत्यतो यत्तृतीयोक्तं नाम तत्कृदन्तेन वा
१ प्रगत आचार्यः प्राचार्यः, संगतोऽर्थः समर्थ इति प्रथमा । भतिक्रान्तः खट्वामतिखटव इति द्वितीया । अवक्रुष्टः कोकिलयाऽवकोकिल इति तृतीया। परिग्लानोऽध्ययनायेति पर्यध्ययन इतिचतुर्थी। निष्क्रान्तः कौशाम्ब्य्या निष्कौशाम्बिरिति पश्चमी । अन्तर्गतो गार्ग्यस्य अन्तर्गाग्य इति षष्ठीतिविप्रहः । सं०