________________
स्वोपज्ञलघुवृत्तिः [१३१] .मध्ये-पदे-निवचने मनस्युरस्यनत्याधाने ।३।१।११।
अनत्याधानमनुपश्लेषोऽनाश्चर्य वा, तवृत्तय एते ऽव्ययाः कृग्योगे गतयो वा स्युः। मध्येकृत्य मध्येकृत्वा । पदेकृत्य, पदेकृत्वा । निवचनेकृत्य, निवचनेकृत्वा। मनसिकृत्य, मनसिकृत्वा । उरसिकृत्य, उरसिकृत्वा ॥११॥
. उपाजेऽन्वाजे । ३ । १ । १२ । एतावव्ययौदुर्बलस्य भग्नस्य वा बलाधानार्थो कृग्योगे गती वा स्याताम् । उपाजेकृत्य, उपाजेकृत्वा । अन्वाजेकृत्य, अन्वाजेकृत्वा ॥ १२ ॥
स्वाम्येऽधिः । ३ । १ । १३ । स्वाम्ये गम्येऽधीत्यव्ययं कुग्योगे गतिर्वा स्यात् । चैत्रं ग्रामे ऽधिकृत्य, अधिकृत्वा वा गतः। स्वाम्य इति किम् ? ग्राममधिकृत्वा उद्दिश्येत्यर्थः ॥ १३ ॥
साक्षादादिश्व्य र्थे । ३ । १ । १४ । - एते च्यर्थवृत्तयः कृग्योगे गतयो वा स्युः। साक्षात्कृत्य, साक्षात्कृत्वा । मिथ्याकृत्या मिथ्याकृत्वा ॥ १४ ॥
नित्यं हस्ते-पाणावुद्धाहे । ३ । १ । १५ । एतावव्ययावुद्वाहे गम्ये नित्यं कृग्योगे गती स्याताम्। हस्तेकृत्य, पाणौकृत्य । उद्वाह इति किम् ? हस्तेकत्वा काण्डं गतः ॥१५॥
प्राध्वं बन्धे । ३ । १ । १६ । प्राध्वमित्यव्ययं बन्धार्थ कुग्योगे गतिः स्यात्। प्राध्वंकृत्य । बन्ध इति किम् ? प्राध्वंकृत्वा शकटं गतः॥ १६ ॥