SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य जीविकोपनिषदौपम्ये । ३ । १ । १७ । एतावौपम्ये गम्ये कृग्योगे गती स्याताम् । जीविकाकृत्य, उपनिषत्कृत्य ॥ १७ ॥ [१३२] नाम नाम्नैका समासो बहुलम् । ३ । १ । १८ । नाम नाम्ना सहैकार्थ्यं सामर्थ्यविशेषे सति समासो बहुलं स्यात्, लक्षणमिदमधिकारश्च तेन बहुव्रीह्यादिसंमाभावे यत्रैकार्थता तत्राऽनेनैव समासः । विस्पष्टपटुः, दारुणाध्यायकः, सार्वचमणो रथः, कन्ये इव । श्रुतपूर्वः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्रः पचति ॥ १८ ॥ सुज्वाऽर्थे सङ्ख्या सङ्ख्येये सख्यया बहुव्रीहिः । ३ । १ । १९ । सुजsर्थो वारो, वाऽर्थो विकल्पः संशयो वा, तद्वृत्तिसङ्ख्यावाचिनाम सङ्ख्येयार्थेन सङ्ख्यानाम्ना सहैकार्थ्ये समासो बहुव्रीहिश्च स्यात् । द्विदशाः, द्वित्राः । सख्येति किम् ? गावो वा दश वा । सख्ययेति किम् ? दश वा गावो वा । सङ्ख्येय इति किम् ? द्विविंशतिर्गवाम् ॥ १९ ॥ १ “आदशभ्यः सङ्ख्या सङ्ख्येये वर्तते, न सङ्ख्याने " ( न्याय संग्रहन्यायः ३४) इति न्यायेनैकतोऽष्टादशान्ता सङ्ख्या सङ्ख्येयेन सह वर्तते, ययैको द्वौ बाsष्टादश वा घटो । एकीन विंशत्यादिसङ्ख्या तु संख्येये सङ्ख्याने च वर्तते, यथा एकोनविंशतिर्नवनवति शतं सहस्र वा घटा घटानां वा । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy