SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ [१३०] हैमशब्दानुशासनस्य भूषाऽऽदर-क्षेपेऽलं-सदसत् । ३ । १ । ४ । . एष्वर्थेष्वेते यथासंख्यं गतयः स्युः। अलकृत्य, स. स्कृत्य, असत्कृत्य। भूषादिष्विति किम् ? अलङ्कृत्वा मा कारीत्यर्थः ॥ ४॥ अग्रहाऽनुपदेशेऽन्तरदः । ३ । १ । ५। .. अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् । अन्तर्हत्य, अदाकृत्यैतत्कर्तेति ध्यायति ॥५॥ कणे-मनस्तृप्तौ । ३ । १।६। एतावव्ययौ तृप्तौ गम्यमानायां गती स्याताम् । कणेहत्य,मनोहत्य पयः पिबति । तृप्ताविति किम् ? तण्डुलावयवे कणे हत्वा ॥६॥ पुरोऽस्तमव्ययम् । ३ । १ । ७। एतावव्ययौ गती स्याताम् । पुरस्कृत्य, अस्तङ्गत्य । अव्ययमिति किम् ? पुरः कृत्वा नगरीरित्यर्थः ॥ ७॥ गत्यर्थचदोऽच्छः । ३ । १।८। अच्छेत्यव्ययं गत्यर्थानां वदश्च धातोः सम्बन्धि गतिः स्यात् । अच्छगत्य, अच्छोद्य ॥ ८॥ तिरोऽन्तद्धौं । ३ । १ । ९ तिरोऽन्तौ गतिः स्यात् । तिरोभूय ॥ ९॥ कृगो नवा । ३।१।१०। तिरोऽन्तौ कृगः सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य, तिरस्कृत्य, पक्षे तिरः कृत्वा ॥१०॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy