________________
॥ अथ तृतीयाध्यायस्य प्रथमपादः ॥ धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थाऽतिवर्जः
प्रादिरुपसर्गः प्राक् च । ३। १ । १। धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्गः स्यात्, स च धातो प्राक् न परो न व्यवहितः। पूजार्थी स्वती, गता
वधिपरी, अतिक्रमार्थमतिश्च वर्जयित्वा । प्रणयति, परिणयति। धातोरिति किम् ? वृक्षं वृक्षमभिसेकः । पूजार्थस्वत्यादिवर्जनं किम् ? सुसिक्तम्, अतिसिक्तम् भवता, अध्यागच्छति, आगच्छत्यधि, पर्यागच्छति, आगच्छति परि, अतिसिक्त्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ॥१॥ - ऊर्याद्यनुकरणच्चिडाचश्च गतिः। ३ । १।२।
एते उपसर्गाश्च धातोः सम्बन्धिनो गतयः स्युस्ते च प्राग् धातोः। ऊर्यादिः-ऊरीकृत्य, उररीकृत्य। अनुकरणम् खाकृत्य । च्च्यन्तः- शुक्लीकृत्य।डाजन्तः-पटपटाकृत्य। उपसर्गः-प्रकृत्य ॥ २ ॥
कारिका स्थित्यादौ । ३ । १ । ३ । स्थित्यादावर्थे कारिका गतिः स्यात् । स्थितिमर्यादा वृत्तिर्वा। कारिकाकृत्य ॥३॥
१ अत्रोपसर्गसंज्ञाऽभावाद्गतिसंज्ञाऽभावस्तेन च समासाभावाद "अनमः क्त्वो. यप् (३-२-१५४) इति सूत्रेण न यप् । सं०