SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ [१२८] हैमशब्दानुशासनस्य दयेष-सूत-पुत्र-वृन्दारकस्य । २।४।१०९/ एषामन्तस्यानित्क्याप्परे इर्वा स्यात् । द्विके, द्वके । एषिका, एषका । सूतिका, सूतका। पुत्रिका, पुत्रका । वृन्दारिका, वृन्दारका ॥ १०९ ॥ वौ वर्तिका । २।४ । ११०। शकुनावर्थे वर्तिकाया इत्वं वा स्यात् । वर्तिका, वर्तका । वाविति किम् ? वर्तिका भागुरीः ॥ ११० ॥ अस्यायत्-तत्-क्षिपकादीनाम् । २ । ४ । १११ । यदादिवर्जस्यातोऽनित्क्याप्परे इः स्यात् । पाचिका, मद्रिका । अनित्कीत्येव ? जीवका, आप्पर इत्येव ? बहुपरिव्राजका। यदादिवर्जनं किम् ? यका, सका, क्षिपका, ध्रुवका ॥ १११॥ नरिका-मामिका । २ । ४ । ११२ । नरिकामामिकयोरित्वं निपात्यते । नरिका, मामिका ॥ ११२ ॥ तारका-वर्णकाऽष्टका ज्योतिस्तान्तव-पितृ-दैवत्ये ।२।४ । ११३ । एतेष्वर्थेषु यथासंख्यमेते इवर्जा निपात्यन्ते । तारका ज्योतिः, वर्णका प्रावरणविशेषः, अष्टका पितृदेवत्यं कर्म ॥११३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ २ ॥ इति स्त्रीलिङ्गप्रकरणम्
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy