________________
स्वोपज्ञलघुवृत्तिः [१२७] उयादीदूतः के । २ । ४ । १०४ । ड्यादीदूदन्तानां च के प्रत्यये हृस्वः स्यात् । पद्विका, सोमपका, लक्ष्मिका, वधुका ॥ १०४ ॥
न कचि । २ । ४ । १०५ । · यादीदूतां कचि परे ह्रस्वो न स्यात् । बहुकुमारीकः, बहुकीलालपाकः, बहुलक्ष्मीकः, बहुब्रह्मवन्धूकः ॥ १०५॥
- नवाऽऽपः । २।४ । १०६।
आपः कचि परे हस्वो वा स्यात् । प्रियखट्वका प्रियखवाकः ॥ १०६ ॥
इचापुंसोनिक्याप्परे । २ । ४ ।१०७)
आबेव.परो यस्मान्न विभक्तिस्तस्मिन्ननितःप्रत्ययस्या:वयवे के परेऽपुल्लिङ्गार्थाद्विहितस्यापस्स्थाने इ-हस्वी वा स्याताम् । खविका, खट्वका, खट्वाका । अपुंस इति किम् ? सर्विका । अनिदिति किम् ? दुर्गका । आप्पर इति किम् ? प्रियखवाको ना, अतिप्रियखट्वाका स्त्री। आप इत्येव ? मातृका ॥ १०७ ।। स्वज्ञाऽजभत्राऽधातुत्ययकात् । २ । ४।१०८)
स्वज्ञाजभस्त्रेभ्यो धातुत्यवर्जस्य यौ यको ताभ्यां च परस्यापः स्थाने नित्क्याप्परे परत इकारो वा स्यात् । स्विका, स्वका। शिका, ज्ञका। अजिका, अजका । भस्त्रिका, भस्त्रका। इभ्यिका, इम्यका । चटकिका, चटकका। धातुत्यवर्जनं किम् ? सुनयिका, सुपाकिका, इहत्यिका । आप इत्येव ? काम्पील्यिका ॥ १०८ ॥