________________
[१२६] हैमशब्दानुशासनस्य वेदूतोऽनव्ययवृदीच्ङीयुवः पदे । २ । ४ । ९८ ।
ईदूतोरुत्तरपदे परे हृस्वो वा स्यात्, न चेत्तावव्ययो वृतौ ईचौड्यौ इयुस्थानौ च स्याताम् । लक्ष्मीपुत्रः, लक्ष्मिपुत्रः । खलपूपुत्रः खलपुपुत्रः। अव्ययादिवर्जनं किम्? काण्डीभूतम्, इन्द्रहपुत्रः, कारीषगन्धीपुत्रः, गार्गीपुत्रः श्रीकुलम्, भ्रूकुलम् ।। ९८ ॥
ड्यापो बहुलं नाम्नि । २।४ । ९९। ड्यन्तस्थाबन्तस्य चोत्तरपदे संज्ञायां हृस्वास्याद्, बहुलम्। भरणिमुप्तः, भरणीगुप्तः। रेवतिमित्रा, रेवतीमित्रः । शिलवहम्, शिलावहम् । गङ्गामहः, ॥९९।।
त्वे । २।४ | १००1 ड्यावन्तस्य त्वे परे बहुलं हृस्वः स्यात्। रोहिणित्वम्, रोहिणीत्वम् । अजत्वम्, अजात्वम् ॥१०० ॥
भुवोऽच कुंसकुट्योः । २ । ४ । १०१ । । ___ अनयोः परयो वो हस्वोच्च स्यात् । अकुंसः, भ्रुकुंसः । भ्रकुटिः, श्रुकुटिः ॥१०१॥ .. मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ।२।४।१०२।
एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यं हस्का स्यात् । मालभारी, उत्पलमालभारी, इषीकतूलम्, इष्टकचितम् ॥ १०२॥
गोण्या मेये । २ । ४ । १०३ । गोण्या मानवृत्तेरुपाचारान्मेयवृत्तेहस्वः स्यात् । गोण्या मितो गोणिः ॥ १०३॥