________________
स्वोपज्ञलघुवृत्तिः [१२५] यस्य तद्धितयस्वरे लुक् स्यात् । बैल्वकाः । वैणुकाः। बिल्वकीयादेरिति किम् ? नाडकीयः ॥ ९३ ॥
न राजन्य-मनुष्ययोरके । २।४ । ९४ । अनयोर्योऽके परे लुग न स्यात् । राजन्यानां समूहो राजन्यकम् , एवं मानुष्यकम् ॥ ९४ ॥ ड्यादेगौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः
।२।४ । ९५ । ड्यादेः प्रत्ययस्य गौणस्याक्विवन्तस्य तद्धितलुकि लुक स्यात्, नतु गोणीसूच्योः। सप्तकुमारः, पश्चन्द्रः, पञ्चयुवा, द्विपशुः, । गौणस्येति किम् ? अवन्ती । अक्विप इति किम् ? पञ्चकुमारी । अगोणीसूच्योरिति किम् ? पश्चगोणिः, दशसूचिः॥ ९५ ॥ गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ ।२।१।९६) गौणस्याक्विपो गोङाद्यन्तस्य चान्ते वर्तमानस्य हृस्वः स्यात् , न चेदसावंशिसमासान्त-इयस्वन्त-बहुव्रीह्यन्तो वा। चित्रगुः, निष्कौशाम्बिः अतिखट्वः, अतिब्रह्मबन्धुः। गौणस्येत्येव सुगौः, राजकुमारी । अक्विप इत्येव? प्रियगौः, प्रियकुमारी चैत्रः गोश्चेति किम् ? अतितिन्त्री, अन्त इति किम् ? गोकुलम्, कुमारीप्रियः, कन्यापुरम् । अंशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना ॥ ९६ ॥
क्लीबे । २ । ४ । ९७। नपुंसकवृत्तेः स्वरान्तस्य नानो इस्वः स्यात् । कीलालपम्, अतिनु कुलम् ॥ ९७॥