SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [१२२] हैमशब्दानुशासनस्य सहितोरू, संहितोरूः, सहोरूः, शफोरूः, वामोरूः, लक्ष्मणोरू: । उपमानादेरिति किम् ? पीनोरूः ॥७५॥ नारी-सखी-पञ्जू-श्वश्रू । २ । ४ । ७६ । एते ङयन्ता ऊन्ताश्च निपात्यन्ते ॥ ७६ ॥ यूनस्तिः । २ । ४ । ७७। यूनः स्त्रियां तिः स्यात् । युवतिः। मुख्यादित्येव ! नि!नी ॥७७॥ अनार्षे वृद्धेऽणित्रौ बहुस्वरगुरूपान्त्यस्यान्तस्य ष्यः ।२।४.७८ । अनार्षे वृद्धे विहितो यावणिौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्यः स्यात् । कारी षगन्ध्या, बालाक्या । अनार्ष इति किम् ? वासिष्ठी। वृद्ध इति किम् ? आहिच्छत्री । अणिज इति किम् ? आतभा. गी। बहुस्वरेति किम् ? दाक्षी । गुरूपान्त्यस्येति किम् ? औपगवी । अणिअन्तस्य सतो बहुस्वरादिविशेषणं किम् ? दौवार्या, औडुलोम्या ॥ ७८ ॥ कुलाख्यानाम् । २ । ४ । ७९ । कुलमाख्यायते यकाभिः तासामनार्षवृद्धाणिजन्तानामन्तस्य स्त्रियां ष्यः स्यात् । पौणिक्या, गौप्त्या । अना. र्ष इत्येव ? गौतमी ॥ ८९ ॥ क्रौडयादीनाम् । २ । ४ । ८० । क्रौडि इत्यादीनामणिअन्तानामन्तस्य स्त्रियां ष्यः स्यात् । क्रौडया, लाझ्या ॥ ८ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy