SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१२१] . कौरव्य-माण्डूकाऽऽसुरेः । २ । ४ । ७०। । एभ्यः स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तः । कौरव्यायणी, माण्डूकायनी, आसुरायणी ॥७॥ इत्र इतः । २ । ४ । ७१ । इनन्तादिदन्तात् स्त्रियां ङीः स्यात् । सौतङ्गमी, इत इति किम् ? कारीषगन्ध्या ॥ ७१ ॥ नुर्जातेः । २ । ४ । ७२ । मनुष्यजातिवाचिन इदन्तात् स्त्रियां डीः स्यात् । कुन्ती, दाक्षी । इत इत्येव ? दरत् । नुरिति किम् ? तित्तिरिः। जातेरिति किम् ? निष्कौशाम्बिः ॥ ७२ ॥ उतोऽप्राणिनश्चायुरज्ज्वादिभ्यः ऊङ् । २ । ४ । ७३ । ___ उदन्तान्नृजातेः अप्राणिजातिवाचिनः स्त्रियामूङ् स्यात् , न तु यवन्ताद्रज्ज्वादिभ्यश्च । कुरूः ब्रह्मबन्धूः, अलावूः,कर्कन्धूः । उत इति किम् ? वधूः । अप्राणिनश्चेति किम् ? आखुः। जातेरित्येव ? पटुः स्त्री । युरज्ज्वादिवर्जन किम् ? अध्वर्युः स्त्री, रज्जुः, हनुः ॥ ७३॥ . बाह्वन्तकद्रुकमण्डलोर्नाम्नि । २।४ । ७४ । • बाह्वन्तात् कद्रुकमण्डलुभ्यां च संज्ञायां स्त्रियामूङ् स्यात् । भद्रबाहूः, कद्रूः, कमण्डलूः । नाम्नीति किम् ? वृत्तबाहुः ॥७४॥ उपमान सहित-संहित-सह-शफचाम-लक्ष्मणायूरोः ।२।४ । ७५ । एतत्पूर्वपदादूरोः स्त्रियामूङ् स्यात् । करभोरू । १६
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy