________________
[१२०] हैमशब्दानुशासनस्य डीयोगे चानन्तोषा। मातुलानी, मातुली । आचार्यानी आचायौं । उपाध्यायानी, उपाध्यायी ॥ ६३ ॥
सूर्यादेवतायां वा । २ । ४ । ६४ । सूर्याद्धववाचिनो योगाद्देवतास्त्रीवृत्तेडींवा स्यात्, ङीयोगे चानन्तः । सूर्याणी, सूर्या । देवतायामिति किम् ? मानुषी सूरी ॥६४॥
यव-यवनारण्य-हिमादोष-लिप्युरु-महत्त्वे ।२।४।६५। ___एभ्यो यथासंख्यं दोषादौ गम्ये स्त्रियां डीः स्यात्, डीयोगे चान् अन्तः। यवानी, यवनानी लिपिः, अरण्यानी, हिमानी ॥६५॥
अयक्षत्रियाद्वा । २।४ । ६६ । आभ्यां स्त्रियां डीवा स्यात्, ‘डीयोगे चानन्तः। अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया ॥ ६६ ।।
यत्रो डायन च वा । २।४ । ६७ । यजन्तात् स्त्रियां डी: स्यात्, ङीयोगे च डायनन्तो वा स्यात् । गार्गी, गाायणी ॥ ६७ ॥
लोहितादिशकलान्तात् । २ । ४ । ६८ । लोहितादेः शकलान्तात्यजन्तात् स्त्रियां डीः स्यात्, तयोगे च डायनन्तः। लौहित्यायनी, शाकल्यायनी॥६८॥ . पावटाद्वा । २ । ४ । ६९। . बान्तादवटाच्च यजन्तात् स्त्रियां डीर्वा स्यात्, डीयोगे च डायनन्तः। पौतिमाघ्यायणी, पौतिमाष्या। आवटयायनी, आवटया ॥६९ ॥
१ "बुभ्नादीनाम्" (३-३-९६) इत्यनेन क्षुम्नादौ पाठात् न णत्वम् । सं०