SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [११९] . अनत्रो मूलात् । २ । ४ । ५८ । नवर्जात्परो यो मूलशब्दस्तदन्ताजातेः स्त्रियां ङीः स्यात् । दर्भमूली, शीर्षमूली । अनञ इति किम् ? अमूला ॥ ५८॥ धवाद्योगादपालकान्तात् । २ । ४ । ५९ । धवो भर्ता, तद्वाचिनः सम्बन्धात् स्त्रीवृत्तेः पालकान्तशब्दवर्जात् ङी: स्यात् । प्रष्ठी, गणकी । धवादिति किकिम् ? प्रसूता । योगादिति किम् ? देवदत्तो धवः, देवदत्ता स्त्री स्वतः । अपालकान्तादिति किम् ? गोपालकस्य स्त्री गोपालिका । आदित्येव ? सहिष्णोः स्त्री सहिष्णुः ॥ ५९॥ पूतक्रतु-वृषाकप्यनि-कुसित-कुसिदादै च ।२।४।६० _एभ्यो धववाचिभ्यस्तयोगात् स्त्रीवृत्तिभ्यो डीः स्यात् , ङीयोगे चैषामैरन्तस्य । पूतक्रतायी, वृषाकपायी, अग्नायी, कुसितायी, कुसीदायी ॥६॥ मनोरौ च वा। २ । ४ । ६१ । धववृत्तमनोर्योगात् स्त्रीवृत्तेर्डीर्वा स्यात्, ङीयोगे चास्य औरैश्चान्तस्य । मनावी, मनायी, मनुः ॥६१।। वरुणेन्द्र-रुद्र-भव-शर्व-मृडादान चान्तः।२।४।६२] एभ्यो धववाचिभ्यो योगात् स्त्रीवृत्तिभ्यो डीः स्यात्, ङीयोगे आन् चान्तः । वरुणानी, इन्द्राणी, रुद्राणी, भवानी, शर्वाणी, मृडानी ॥ ६२ ॥ मातुलाऽऽचार्योपाध्यायादा । २ । ४ । ६३ । एभ्यो धववाचिभ्यो योगात्स्त्रीवृत्तिभ्यो ङीः स्यात्,
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy