________________
[११८] हैमशब्दानुशासनस्य पतिवल्यन्तर्वल्यौ भार्या गर्भिण्योः ।३।४।५३।
भार्या अविधवा स्त्री, तस्यां गर्भिण्यां च यथासंख्यमेतौ निपात्येते । पतिवत्नी, अन्तर्वत्नी ॥ ५३ ॥
जातेश्यान्त-नित्य-स्त्री-शूद्रात् । २ । ४ । ५४ । "जातिवाचिनोऽदन्तात् स्त्रियां डीः स्यात्, न तु यान्तनित्यस्त्रीशूद्रात् । कुक्कुटी, वृषली, नाडायनी, कठी। जातेरिति किम् ? मुण्डा। यान्तवर्जनं किम् ? क्षत्रिया नित्यस्त्रीवर्जनमिति किम् ? खट्वा । शूद्रवर्जनं किम् ? शूद्रा । आदित्येव ? आखुः ॥५४॥
पाक-कर्ण-पर्ण-चालान्तात् । २ । ४।५५।। पाकाद्यन्ताया जाते. स्त्रियां डीः स्यात् । ओदनपाकी, आखुकर्णी, मुद्गपर्णी, गोवाली । जातेरित्येव ? बहुपाका यवागूः ॥ ५५॥ . असत्काण्ड-प्रान्त-शतकाचः पुष्पात् । २।४ । ५६ ।
सदादिवर्जेभ्यः परोयः पुष्पशब्दस्तदन्ताजातेः स्त्रियां डीः स्यात् । शङ्खपुष्पी । सदादिवर्जनं किम् ? सत्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, प्राक्पुष्पा ॥५६॥ असम्-भस्त्राजिनैक-शण-पिण्डात्फलात् ।३।४।५७/
समादिवर्जेभ्यो यः फलशब्दस्तदन्ताज्जातेः स्त्रियां डीः स्यात्। दासीफली । समादिप्रतिषेधः किम् ? संफला, भस्त्रफला, अजिनफला, एकफला, शणफला, पिण्डफला ओषधिः ॥ ५७ ॥
१ अकारादित्येव । सं०