SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [११७] अनाच्छादजात्यादेनेवा । २।४ । ४७। ___ आच्छादवर्जा या जातिस्तदवयवात् कृतादिवर्जात् तान्ताद् बहुव्रीहेः स्त्रियां डीर्वा स्यात् । शाङ्गरजग्धी, शाङ्गरजग्धा । आच्छादवर्जनं किम् ? बस्त्रछन्ना । जात्यादेरिति किम् ? मासयाता । अकृताद्यन्तादित्येव ? कुण्डकृता ॥ ४७॥ पत्युनः।२।४ । ४८।। पत्यन्ताद् पहुव्रीहेः स्त्रियां डीर्वा स्यात् । तद्योगेऽन्तस्य न च । दृढपत्नी, दृढपतिः। मुख्यादित्येष? बहुस्थूलपतिः पुरी ॥४८॥ सादेः । २ । ४ । ४९। सपूर्वपदात्पत्यन्तात् स्त्रियां डीर्वा स्यात् , तयोगेऽन्तस्य न च । ग्रामस्य पतिः, ग्रामपत्नी, ग्रामपतिः। सादेरिति किम् ? पतिरियम , ग्रामस्य पतिरियम् ॥ १९ ॥ सपल्यादौ । २।४। ५०। - एषु पतिशब्दात् स्त्रियां डीः स्यात, अन्तस्य न च । सपत्नी, एकपत्नी ॥५०॥ ... ऊढायाम् । २।४।५१ । __ पत्युः परिणीतायां स्त्रियां डीः स्यात्, न चान्तस्य । पत्नी, वृषलस्य पत्नी ॥५१॥ पाणिगृहीतीति । २ । ४ । ५२ । . पाणिगृहीतीतिप्रकाराःशब्दा ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते। पाणिगृहीती, करगृहीती। ऊढायामित्व ? पाणिगृहीताऽन्या ॥ ५२ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy