________________
हेमशब्दानुशासनस्य मेव स्त्रियां डीर्वा स्यात् । शूर्पनखी, शूर्पनखा । चन्द्रमुखी, चन्द्रमुखा। अनाम्नीति किम् ? शुर्पणखा, कालमुखा॥४०॥
पुच्छात् । २।४ । ४१ । सहादिवर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां डी स्यात् । दीर्घपुच्छी, दीर्घपुच्छा ॥ ४१ ।।
कबर-मणि-विष-शरादेः। २।४ । ४२ । एतत्पूर्वपदात् पुच्छात् स्त्रियां डीनित्यं स्यात् । कषरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी ।। ४२ ।।
पक्षाचोपमानादेः । २ । ४ । ४३ ॥ उपमानपूर्वात् पक्षात् पुच्छाच स्त्रियां हीः स्यात् । उलूकपक्षी शाला, उलूकपुच्छी सेना ॥ ४३ ॥
क्रीतात् करणादेः । २ । ४ । ४४। करणादेः क्रीतान्ताददन्तात् स्त्रियां डीः स्यात् । अश्वक्रीती, मनसाक्रीती। आदेरिति किम् ? अश्वेन क्रीता ॥४५॥
तादल्पे । २।४।४५। क्तान्तात् करणादेरल्पेऽर्थे स्त्रियां डीः स्यात् । अभ्रविलिप्ती यौः, अल्पाभ्रेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री ॥ ४५॥ स्वाङ्गादेरकृत-मित-जात-प्रतिपन्नाद् बहुव्रीहे।।४।४६। ___ म्वाङ्गादेः कृतादिवर्जात् क्तान्ताद् बहुव्रीहेः स्त्रियां डी: स्यात् । शङ्कभिन्नी, उरुभिन्नी । कृतादिवर्जनं किम् ? दन्तकृता, दन्तमिता, दन्तजाता, दन्तप्रतिपन्ना ॥ ४६ ।।