________________
स्वोपज्ञलघुवृत्तिः [११५] ! .. कः पलितासितात् । २ । ४ । ३७। __ त इति चेति चानुवर्तते, आभ्यां स्त्रियां डीर्वा स्यात् तद्योगे तः क्नः। पलिक्नी पलिता । असिक्नी, असिता ॥ ३७॥ असह-न-विद्यमानपूर्वपदात् स्वाङ्गादकोडादिभ्यः
।२।४ । ३८।। सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जा ददन्तात् स्त्रियां डीर्वा स्यात् । पीनस्तनी, पीनस्तना । अतिकेशी, अतिकेशा माला । सहादिवर्जनं किम् ? सहकेशा, अकेशा, विद्यमानकेशा । क्रोडादिवर्जनं किम् ? कल्याणक्रोडा, बहुगुदा, दीर्घवाला । स्वाङ्गादिति किम् ? बहुशोफा, बहुज्ञाना, बहुयवा ॥ ३८॥ नासिकोदरोष्ठ-जवा-दन्त-कर्ण-शृङ्गाङ्ग-गात्र कण्ठात्
।२।४ । ३९। ... ... सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां डीर्वा स्यात् । तुङ्गनासिकी, तुङ्गनासिका। कृशोदरी कृशोदरा । बिम्बोष्ठी, बिम्बोष्ठा । दीर्घजङ्घी, दीर्घजङ्घा । समदन्ती, समदन्ता । चारुकर्णी, चारुकर्णा। तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा । मृदङ्गी, मृदङ्गा । सुगात्री, सुगात्रा । सुक ष्ठी, सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम् । तेन बहु. स्वरसंयोगोपान्तेभ्योऽन्येभ्यो मा भूत्, सुललाटा, सुपाची ॥ ३९ ॥
नख-मुखादनाम्नि ।२।४।४०१ सहादिवर्जपूर्वपदाभ्यां स्वागाभ्यामाभ्यामसंज्ञाया