________________
..
.
[११४] .. हैमशब्दानुशासनस्य कामुकी रिरंसुः, कामुकाऽन्या । कटी श्रोणिः, कटाऽन्या। 'कबरी केशपाशः, कबराऽन्या ॥ ३० ॥
नवा शोणादेः । २।४ । ३१ । शोणादेः स्त्रियां डीर्वा स्यात् । शोणी, शोणा । च*ण्डी, चण्डा ॥ ३१ ॥
इतोऽक्त्यर्थात् । २ । ४ । ३२ । क्त्यर्थप्रत्ययान्तवर्जादिदन्तात् स्त्रियां डीर्वा स्यात् । भूमी, भूमिः। धूली, धूलिः । अक्त्यर्थादिति किम् ? कृतिः, अकरणिः, हानिः ॥ ३२ ॥
पद्धतेः । २.४ । ३३ । -- अस्मात् स्त्रियां ङीर्वा स्यात् । पद्धती, पद्धतिः ॥३३॥
शक्तेः शस्त्रे । २ । ४ । ३४। .: अस्माच्छस्त्रे स्त्रियां ङीर्वा स्यात् । शक्ती, शक्तिः। शस्त्र इति किम् ? शक्तिः सामर्थ्यम् ॥ ३४ ।।। ___ स्वरादुतो गुणादखरोः । २ । ४ । ३५।।
स्वरात्परो य उत् तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां कीर्वा स्यात् । पदवी, पटुः । विभ्वी, विभुः । स्वरादिति किम् ? पाण्डुभूमिः । गुणादिति किम् ? आखुः स्त्री । अखरोरिति किम् ? खरुरियम् ॥ ३५ ॥ श्येतैत-हरित-भरित-रोहितावर्णात्तो नश्च ।२।४।३६।
एभ्यो वर्णवाचिभ्यः स्त्रियां डीर्वा स्यात् , तद्योगे तो न च । श्येनी, श्येता । एनी, एता। हरिणी, हरिता। भरिणी, भरिता । रोहिणी, रोहिता। वर्णादिति किम् ? श्येता, एता ॥ ३६॥ ..