________________
___ स्वोपज्ञलघुवृत्तिः [११] रेवतो रोहिणाझे । २ । ४ । २६ । आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियों की स्यात् । रेवती,रो. हिणी, रेवत्या जाता रेवती। भ इति किम् ? रेवता ॥२६॥
नीलाप्राण्योषध्योः । २।३ । २७ । प्राणिन्यौषधौ च नीलात् स्त्रियां डीः स्यात् । नीली गौः, नीली औषधिः । नीलाऽन्या ॥ २७ ॥
‘क्ताच नाम्नि वा। २।४।२८। नीलात् क्तान्ताच स्त्रियां संज्ञायां डीर्वा स्यात् । नीली प्रवृद्धविलूनी । नीला, प्रवृद्धविलूना ॥२८॥ केवल-मामक-भागधेय-पापाऽपर-समानाऽऽर्यकृत-सु
मङ्गल-भेषजात् । २।४।२९ । एभ्यो नाम्नि स्त्रियां डीः स्यात् । केवली ज्योतिः, मामकी, भागधेयी, पापी, अपरी, समानी, आर्यकृती, सुमङ्गली, भेषजी । नाम्नीत्येष ? केवला ॥ २९ ॥ भाज-गोण-नाग-स्थल-कुण्ड-काल-कुश कामुक कटकबरात् पक्वाऽऽवपन-स्थूलाकृत्रिमाऽमत्र-कृष्णाऽऽय
सी-रिरंसु-श्रोणि-केशपाशे । २ । ४ ॥३०॥ एभ्यो यथासंख्यं पक्वादिष्वर्थषु स्त्रियां नाम्नि कीः स्यात् । भाजी पक्वा चेत्, भाजाऽन्या । गोणी आवपनम्, गोणाऽभ्या। नागी स्थूला, नागाऽन्या । स्थली अकृत्रिमा, स्थलाऽन्या। कुण्डी अमत्रम् , रुण्डाऽन्या । काली कृष्णा, कालान्या। कुशी आयसी, कुशाग्न्या ।