SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ [११२] हैमशब्दानुशासनस्य वयस्यनन्त्ये । २ । ४ । २१ । कालकृता शरीरावस्था वयस्तस्मिन्नचरमे वर्तमानादकारान्तात् स्त्रियां डीः स्यात् । कुमारी, किशोरी, वधूटी। अनन्त्य इति किम् ? वृद्धा ॥२१॥ दिगोः समाहारात् । २ । ४ । २२ । समाहारद्विगोरदन्तात् स्त्रियां डीः स्यात् । पञ्चपूली, दशराजी ॥ २२ ॥ परिमाणात् तद्धितलुक्यविस्ताऽऽचितकम्बल्यात् ।२।४।२३। परितः सर्वतो मानं परिमाणं, रूढः प्रस्थादिविस्तादिवर्जपरिमाणान्ताद द्विगोरदन्तात् तद्धितलुकि स्त्रियां डीः स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणादिति किम् ? पञ्चभिरश्वैः क्रीता पश्चाश्वा । तद्धितलुकीति किम् ? द्विपण्या । बिस्तादिवर्जनं किम् ? द्विबिस्ता, द्वयाचिता, द्विकम्बल्या ॥ २३ ॥ काण्डात् प्रमाणादक्षेत्रे । ४ । २४ । प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद् द्विगोस्तद्धितलुकि स्त्रियां ङीः स्यात् । आयामः प्रमाणम्, द्वे काण्डे प्रमाणमस्याः द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? द्विकाण्डा शाटी । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः ॥२४॥ पुरुषाद्वा ।२ । ४ । २५ । प्रमाणवाचिपुरुषान्ताद द्विगोस्तद्धितलुकि स्त्रियां.डीर्वा स्यात् । द्विपुरुषी द्विपुरुषा परिखा। तद्धितलुकीत्येव ? पञ्चपुरुषाः समाहृताः पञ्चपुरुषी ॥ २५ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy