________________
स्वोपनलघुवृत्तिः [१११] स्त्रियां डीन स्यात् । सुपर्वा, सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी ॥ १३ ॥
मनः । २।४ । १४ । मन्नन्तात् स्त्रियां ङीन स्यात् । सीमानौ ॥ १४ ॥
ताभ्यां वाए डित् । २।४।१५ । मन्नन्ताद् बहुव्रीहेश्वान्नन्तात् स्त्रियामा वा स्यात्, स च डित्। सीमे, सुपर्वे । पक्षे, सीमानौ, सुपर्वाणौ ॥१५॥
अजादेः। २ । ४ । १६ । अजादेस्तस्यैव स्त्रियामाप स्यात् । अजा, बाला, ज्येछा, क्रुश्चा ॥ १६ ॥
ऋचि पादः पात्पदे । २ । ४ । १७ । कृतपाद्भावपादस्य ऋच्यर्थे पात्पदेति निपात्यते। त्रिपदा, त्रिपाद् गायत्री । ऋचीति किम् ? द्विपात्, द्विपदी ॥१७॥
आत् । २।४ । १८। अकारान्तात् स्त्रियामाप् स्यात् । खट्वा, या, सा॥१८॥ गौरादिभ्यो मुख्याद् डीः । २ । ४ । १९ ।
गौरादिगणान्मुख्यात् स्त्रियां डीः स्यात् । गौरी, शबली। मुख्यादिति किम् ? बहुनदा भूमिः ॥ १९ ॥ अणयेकण-नञ्-स्नञ्-टिताम् । २ । ४ । २० ।
अणादीनां योऽत् , तदन्तात्तेषामेव स्त्रियां डीः स्यात् । औपगवी, वैदी, सौपर्णेयी, आक्षिकी, स्त्रैणी, पौंस्नी, जानुदघ्नी ॥ २०॥