________________
। [११०] हैमशब्दानुशासनस्य
वा पादः । २ । ४।६। बहुव्रीहेस्तद्धेतुकपाच्छब्दान्तात् स्त्रियां कीर्वा स्यात् । द्विपदी, द्वीपात्। बहुव्रीहिनिमित्तो यः पाद् इतिविशेषणादिह न स्यात् । पादमाचष्टे क्विपि पाद्, त्रयः पादोऽस्याः सा त्रिपात् ॥ ६॥
ऊनः । २।४।७। . .. ऊधन्नन्ताहहुव्रीहे. स्त्रियां ङीः स्यात् । कुण्डोधी ॥७॥
अशिशोः । २।४।८। अशिशु इति बहुव्रीहे स्त्रियांडी स्थात् । अशिश्वी॥८॥
संख्यादेहायनाद्वयसि । २।४।९। संख्यादेहायनान्ताद्वहुव्रीहेः स्त्रियांडी: स्यात्, क्यसि गम्ये । त्रिहायणी, चतुर्हायणी वडवा । वयसीति किम् ? चतुर्हायना शाला ॥९॥
दाम्नः । २।४।१०। संख्यादेमन्नन्ताद् बहुव्रीहेः स्त्रियां डी: स्यात् । द्विदाम्नी । संख्यादेरित्येव ? उद्दामानं पश्य ॥१०॥
अनोवा। २.४ । ११ ।। अनन्तादबहुव्रीहे. स्त्रियां कीर्वा स्यात् । बहुराज्यो, बहुराजे, बहुराजानौ ॥११॥
नाम्नि । २।४।१२। अन्नन्ताद् बहुव्रीहे. स्त्रियां संज्ञायां नित्यं डीः स्यात् । अधिराज्ञी, सुराज्ञी नाम ग्रामः ॥ १२॥
नोपान्त्यवतः।२।४ । १३ । यस्योपान्त्यलग नास्ति तस्मादन्नन्तादू बहुव्रीहेः