SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थः पादः ॥ स्त्रियां नृतोऽस्वस्रादेर्डीः । २ ४ । १ । स्त्रीवृत्तेर्नान्तादृदन्ताच स्वस्रादिवर्जाद् डीः स्यात् । राज्ञी, अतिराज्ञी कीं। स्त्रियामिति किम् ? पञ्चनद्यः । अस्वस्रादेरिति किम् ? स्वसा, दुहिता ॥१॥ __अधातूदृदितः । २ । ४ । २ । अधातुर्य उदिदिच्चतदन्तात् स्त्रीवृत्तेडीं स्यात् । भवती, अतिमहती, पचन्ती । अधात्विति किम् ? सुकन् स्त्री ॥२॥ अञ्चः । २।४।३। अश्चन्तात् स्त्रियां डीः स्यात् । प्राची, उदीची ॥३॥ णस्वराऽघोषादनो रश्च । २।४।४। एतदन्ताद् विहितो यो वन्, तदन्तात् स्त्रियां डी. स्यात्, तद्योगे वनोऽन्तस्य रश्च । अवावरी, धीवरी, मेरुदृश्वरी। णस्वराज्योषादिति किम् ? सहयुध्वा स्त्री। विहितविशेषणं किम् ? शर्वरी ॥४॥ वा बहुव्रीहेः । २।४।५।। णस्वराघोषाद्विहितोयो वन्,तदन्ताद् बहुव्रीहेः स्त्रियां कीर्वा स्यात्, रश्वाऽन्तस्य । प्रियावावरी, प्रियावावा। बहुधीवरी, बहुधीवा । बहुमेरुहश्वरी, बहुमेरुहश्वा ॥५॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy